(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.189. अध्यायः 189
Mahabharata - Drona Parva - Chapter Topics
द्रोणार्जुनादीनां सङ्कुलयुद्धम्॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-189-0x(4769)(53767)
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत्।
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम्॥ 7-189-1(53768)
तस्यापतत एवाशु भल्लेनामित्रकर्शनः।
माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत्॥ 7-189-2(53769)
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः।
कृत्तोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान्॥ 7-189-3(53770)
यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम्।
ततो दुःशासनः सूतं बुबुधे गतचेतसम्॥ 7-189-4(53771)
स हयान्सन्निगृह्याजौ स्वयं हयविशारदः।
युयुधे रथिनां श्रेष्ठो लघु चित्रं च सुष्ठु च॥ 7-189-5(53772)
तदस्यापूजयन्कर्म स्वे परे चापि संयुगे।
हतसूतरथेनाजौ व्यचरद्यदभीतवत्॥ 7-189-6(53773)
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत्।
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः॥ 7-189-7(53774)
स रश्मिषु विषक्तत्वादुत्सर्ज शरासनम्।
धनुषा कर्म कुर्वंस्तु रश्मींश्च पुनरुत्सृजत्॥ 7-189-8(53775)
छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत्।
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत्॥ 7-189-9(53776)
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः।
आकर्णपूर्णैरभ्यघ्नद्बाह्वोरुरसि चानदत्॥ 7-189-10(53777)
स निवृत्तस्ततः कर्णः सङ्घट्टित इवोरगः।
भीममावारयामास विकिरन्निशिताञ्छरान्।
ततोऽभूत्तुमुलं युद्धं भीमराधेययोस्तदा॥ 7-189-11(53778)
तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ।
वेगेन महताऽन्योन्यं संरब्धावभिपेततुः॥ 7-189-12(53779)
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः।
विच्छिन्नशरपातत्वाद्गदायुद्धमवर्तत॥ 7-189-13(53780)
गदया भीमसेनस्तु कर्णस्य रथकूबरम्।
बिभेद शतधा राजंस्तदद्भुतमिवाभवत्॥ 7-189-14(53781)
ततो भीमस्य राधेयो गदामाविध्य वीर्यवान्।
अवासृजद्रथे तां तु बिभेद गदया गदाम्॥ 7-189-15(53782)
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम्।
तां गदां बहुभिः कर्णः सुपुङ्खैः सुप्रवेजितैः॥ 7-189-16(53783)
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत्।
व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता॥ 7-189-17(53784)
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः।
पपात सारथिश्चास्य मुमोह च गदाहतः॥ 7-189-18(53785)
स कर्णं सायकानष्टौ व्यसृजत्क्रोधमूर्च्छितः।
तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः॥ 7-189-19(53786)
चिच्छेद परवीरघ्नः प्रहसन्निव भारत।
ध्वजं शरासनं चैव शरावापं च भारत॥ 7-189-20(53787)
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम्।
ततः पुनस्तु राधेयो हयानस्य रथेषुभिः।
ऋक्षवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी॥ 7-189-21(53788)
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम्।
हरिर्यथा गिरेः शृङ्गं समाक्रमदरिन्दमः॥ 7-189-22(53789)
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ।
आचार्यशिष्यौ राजेन्द्र कृतप्रतिकृतौ युधि॥ 7-189-23(53790)
लघुसन्धानयोगाभ्यां रथयोश्च रणेन च।
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च॥ 7-189-24(53791)
उपारमन्त ते सर्वे योधाऽस्माकं परे तथा।
विचित्रान्पृतनामध्ये रथमार्गानुदीर्य तौ। 7-189-25(53792)
अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः॥ 7-189-26(53793)
पराक्रमं तयोर्योधा ददृशुस्ते सुविस्मिताः॥ 7-189-27(53794)
तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत्।
आमिषार्थे महाराज गगने श्येनयोरिव॥ 7-189-28(53795)
यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया।
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः॥ 7-189-29(53796)
यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषितुम्।
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः॥ 7-189-30(53797)
ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम्।
मुक्तंमुक्तं द्रोणचापात्तज्जघान धनञ्जयः॥ 7-189-31(53798)
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः।
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत्॥ 7-189-32(53799)
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया।
तस्यतस्य विघाताय तत्तद्धि कुरुतेऽर्जुनः॥ 7-189-33(53800)
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि।
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत्॥ 7-189-34(53801)
मेने चात्मानमधिकं पृथिव्यामधि भारत।
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्य परन्तपः॥ 7-189-35(53802)
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्।
यतमानोऽर्जुनं प्रीत्या प्रीयते स्मार्जुनेन सः॥ 7-189-36(53803)
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः।
ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया॥ 7-189-37(53804)
तदप्सरोभिराकीर्णं यक्षगन्धर्वसङ्कुलम्।
श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा॥ 7-189-38(53805)
तत्रास्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः।
द्रोणपार्थस्तवोपेता व्यश्रूयन्त नराधिप॥ 7-189-39(53806)
विसृज्यमानेष्वस्त्रेषु ज्वालयस्तु दिशो दश।
अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः॥ 7-189-40(53807)
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्।
न दैवं न च गान्धर्वं ब्राह्मणं ध्रुवमिदं परम्॥ 7-189-41(53808)
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम्।
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः॥ 7-189-42(53809)
नानयोरन्तरं शक्यं द्रष्टुमन्येन केनचित्॥ 7-189-43(53810)
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना।
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते॥ 7-189-44(53811)
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे।
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे। 7-189-45(53812)
नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः।
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत्॥ 7-189-46(53813)
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ।
अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः॥ 7-189-47(53814)
`यदा द्रोणं महाराज विशेषयति पाण्डवः'।
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः॥ 7-189-48(53815)
`तदस्त्रं संहितं राजन्धोररूपं महाहवे'।
सन्तापयद्रणे पार्थं भूतान्यन्तर्हितानि च॥ 7-189-49(53816)
ततश्चचाल पृथिवी सपर्वतवनद्रुमा।
`सरितश्च प्रतिस्रोतः प्रवहुर्वै क्षणान्तरम्'।
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः॥ 7-189-50(53817)
ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः।
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना॥ 7-189-51(53818)
ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान्।
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत्॥ 7-189-52(53819)
यदा न गम्यते पारं तयोरन्यतरस्य वा।
ततः सङ्कुलयुद्धेन तद्युद्धं व्याकुलीकृतम्॥ 7-189-53(53820)
नाज्ञायत ततः किञ्चित्पुनरेव विशाम्पते।
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्नृप॥ 7-189-54(53821)
`द्रोणो मुक्त्वा रणे पार्थं पाञ्चालानन्वधावत।
अर्जुनोपि रणे द्रोणं त्यक्त्वा प्राद्रवयत्कुरून्॥ 7-189-55(53822)
शरौघैरथ ताभ्यां तु छायाभूतं महामृधे।
तुमलं प्रबभौ राजन्सर्वस्य जगतो भयम्'॥ 7-189-56(53823)
शरजालैः समाकीर्णे मेघजालैरिवाम्बरे।
नापतच्च ततः कश्चिदन्तरिक्षचरस्तदा॥ ॥ 7-189-57(53824)

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिसयुद्धे एकोननवत्यधिकशततमोऽध्यायः॥ 189 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-189-45 ज्ञानमेकस्थमिति आचार्यो ज्ञानस्य शौर्यस्य चावधिरित्यर्थः। अर्जुनस्तु योगेन बलेन चाधिकः। कृष्णसारथिगाण्डीवदिव्यरथध्वजबुद्भ्यादिभिर्यौवनेन च युक्तत्वात्। तथाच योगबलाभ्यां मार्चार्यसाम्यं प्राप्त इत्यर्थः॥ 5-189-57 नापतत् बाणैरन्तरिक्षस्य पूरितत्वादिति भावः॥ 5-189-189 एकोननवत्यधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.